पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
284
७ अधि, ७ अध्या.
पागुण्यम्

3494  व्यसनिनमपायस्थाने सक्तमनर्थिनं वा ज्यायांसं हीनो
बलसमेन लाभेन पणेत । पणितस्तस्यापकारसमर्थो विक्र-
मेत । अन्यथा संदध्यात् । एवंभूतो हीनशक्तिप्रतापपूर-
णार्ंथ सम्भाव्याभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं
हीनो बलसमाद्विशिष्टेन लाभेन पणेत । पणितः कल्याण-
बुद्धिमनुगृह्णीयादन्यथा विक्रमेत ॥

 जातव्यसनप्रकृतिरन्ध्रमुपस्थितानर्थं वा ज्यायांसं हीनो
दुर्गमित्रप्रतिस्तब्धो वा हृस्वमध्वानं यातुकामः शत्रुमयुद्धमे-
कान्तसिद्धिं[१] लाभमादातुकामो बलसमाद्धिनेन लाभेन पणेत
पणितस्तस्य अपकारसमर्थो विक्रमेत; अन्यथा संदध्यात् ॥

 अरन्ध्रव्यसनो वा ज्यायान्[२] दुरारब्धकर्माणं भूयः क्षय-
व्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्ड-
मावाहयितुकामो वा पीडनीयमुच्छेदनीयं वा हीनेन व्यथ-
यितुकामः सन्धिप्रधानो वा कल्याणबुद्धिः हीनं[३] लाभ
प्रतिगृह्णीयात् । कल्याणबुद्धिना सम्भूयार्थ लिप्सत; अन्यथा
विक्रमेत ॥
8504  एवं समस्सममातिस्संदध्यात् ; अनुगृह्णीयाद्वा ॥

 परानीकस्य प्रत्यनीकं मित्राटवीनां वा शत्रोर्विभूमीनां
देशिकमूलपाणित्राणार्थं वा समस्समवलेन लाभेन पणेत ।
पाणितः कल्याणबुद्धिमनुगृह्णीयात् ; अन्यथा विक्रमेत ॥


  1. सिद्ध वा
  2. ज्यावास
  3. बुद्धिहीन