पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
स्त्रीप्रशंसा

त्प्रकृतिभावः * 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञा. शार्दू - लविक्रीडितम् ।।

मुग्धे धानुष्कता केय मपूर्वा त्वयि दृश्यते।
यया विष्यसि चेतांसि गुणैरेव न सायकैः ॥ १३

___ व्या.---मुग्ध इति.-धनुः प्रहरणमस्य धानुष्कः धन्वी 'प्रहरणम्' इति ठक् * 'इसुसुक्तान्तात्कः' - नि. 'धन्वी धनुष्- मान्धानुष्कः' इत्यमरः - तस्य भावस्तत्ता। हेमुग्धे सुन्दरि - नि. 'मुग्धस्सुन्दरमूढयोः' इत्यमरः - यद्वा हेउदयद्यौवनभावे। त्वय्य- पूर्वा अदृष्टचरा - असाधारणीति यावत् - धानुष्कता दृश्यते । इयं धानुष्कता। का कीदृशी - न ज्ञायत इत्यर्थः। कुतः - यया धानुष् कतया हेतुना। चेतांसि युवजनमनांसि - दुर्लक्ष्याणीति भावः । गुणा मौर्व्यो - रूपयौवनादयश्च - तैरेव। विध्यसि। सम्प्रहरसि। सायकैः बाणैस्तु न विध्यसि। यतः लोके धानुष्काः प्रौढा एव सुलक्ष्याण्येव लक्ष्याणि बाणैरेव विध्यन्ति । त्वं तु मुग्धाऽऽपि दुर्लक्ष्याण्यपि लक्ष्याणि मौर्वीभिरेव विध्यसीति कृत्वा त्वदीयधानु- कताया अपूर्ववादज्ञेयत्वमिति भावः ; स्त्रीणां रूपयौवनगुणसम्प- त्तिरेव परप्रहरणसाधनमिति फलितार्थः ॥

 अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थितत्वाद्वाक्यार्थहेतुकं

  • काव्यलिङ्गम् ; तच्च गुणयोः श्लेषभित्तिकाभेदाध्यवसायमूलातिश-

योक्तिनिर्व्यूढमित्यनयोरङ्गाङ्गिभावेन संकरः : तेन च प्रसिद्धाद्धा- नुष्कादुपमानादुपमेयभूतमुग्धाया आधिक्यप्रतीतेर्व्य॑तिरेको व्यज्यत- इत्यलङ्कारेणालङ्कारध्वनिः. अनुष्टुप् .