पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३ प्रक
195
दण्डपावडध्यम्

 तैरेवामेध्यैः पादष्ठीवनिकाभ्यां च षट्पणः छार्दैमूत्रपुरीषा दिभिर्द्वादशपणः । नाभेरूपरि द्विगुणाः । शिरसि चतुर्गुणाः समेषु ।
 विशिष्टेषु द्विगुणा. । हीनेषु अर्थदण्डाः । परस्त्रीषु द्विगुणाः। प्रमादमदमोहादिभिरर्धदण्डाः ।
 पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः[१] पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेषु पूर्वस्साहसदण्डः ।
 पातयित्वाऽपक्रमतोऽर्धदण्डाः।
 शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात्तदस्य छेदयेत् ।
 अवगुणों निष्क्रयः स्पर्शनार्धदण्डः ।
 तेन चण्डालाशुचयो व्याख्याताः ।
 हस्तेनावगूर्णे त्रिपणावरोद्वादशपणपरो दण्डः। पादेन द्विगुणः। मुखोत्पादनेन द्रव्येण पूर्वस्साहसदण्ड ! प्राणाबाधिकेन मध्यमः ।
 [२]काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन दुःखमशो णितमुपादधत[३]श्चतुर्विंशतिपणो दण्डः। शोणितोत्पादने द्विगुणः अन्यत्र दुष्टशोणितात् ।
 [४]मृतकल्पमशोणित घ्नतो हस्तपादपारंचिकं वा कुर्वतः पूर्व- स्साहसदण्ड ।
 [५]"पाणिपाददन्तभङ्गे कर्णनासाच्छेदने प्राणविदारणेच अन्य

व दुष्टव्रणेभ्यः।



  1. याज्ञय.II, 216--220,
  2. ठीविका
  3. याझ्या II, 221, 2233; 224
  4. माद.
  5. दरले छेदने कर्णम नयो । नोडोनगो द्धदे मृतकल्पहते तथा ॥” इति दण्डपारुध्ये याज्ञवल्क्य .