पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२ प्रक.]
399
योगवामनम्

इति ज्ञायेत । तदद्भुतं राज्ञः तदर्शिनः सत्रिणश्च कथयेयुः। 480 4

ततो नैमित्तिकमौहूर्तिकव्यञ्जनाः शान्ति प्रायश्चित्तं ब्रूयुः, "अ.

न्यथा महदकुशलं राज्ञो देशस्य च" इति। प्रतिपन्नं “एतेषु

सप्तरात्रमेकैकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।

"ततः" समानम् ।

 एतान्वा योगानात्मनि दयित्वा प्रतिकुर्वीत। परेषामुपदेशा-

र्थम् । ततः प्रयोजयेद्योगान् । योगदर्शनप्रतीकारेण वा को-

शाभिसंहरणं कुर्यात् । हस्तिकामं वा नागवनपालहस्तिना

लक्षण्येन प्रलोभयेयुः । प्रतिपन्नं गहनमेकायनं वाऽतिनीय धात.

येयुः, बध्वा वाऽपहरेयुः । तेन मृगयाकामो व्याख्यातः ।।

द्रव्यस्त्रीलोलुपमाढयविधवाभिर्वा परमरूपयौवनामाभिस्स्त्री-

भिर्दायादनिक्षेपार्थमुपनीताभिः सत्रिणः प्रलोभयेयुः । पति-

पन्नं रात्रौ सत्रिच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः।।

सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानामभीक्ष्णाभिगमनेषु वा

भूमिगृहसुरङ्गागूढभित्तिप्रविष्टास्तीक्ष्णाः परमभिहन्युः ।

येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवस्स्वयम् । 4813
यात्राविहारे रमते यत्राक्रीडति वाऽम्भसि ॥

घिगुक्तयादिषु सर्वेषु यज्ञप्रवहणेषु वा ।
सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा ॥

प्रमादं याति यस्मिन् वा विश्वासात्स्वजनोत्सवे ।
- यत्रास्यारक्षिसञ्चारो दुर्दिने संकुलेषु वा ॥