पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
396
[१ ३ अधि. २ अध्या.
दुर्गलम्भोपायः

वकेशिना वायसपिण्डेन कैतवजमेधेनेति विहताशान् ; दुर्भगा-

लङ्कारेण द्वेषिणोऽतिपूजाफलान् , व्याघ्रर्चमणा[१] मृत्युकूटेन चो-

पहितान् ; पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराभिमन्थ-

नेनेति ध्रुवापकारिणः' इति । प्रतिपन्नान् अर्थमानाभ्यां योजयेत्

द्रव्यमक्तच्छिद्रेषु चैनान् द्रव्यमक्तादानैरनुगृह्णीयात् । अप्रति-

गृह्णतां स्त्रीकुमारालङ्कारानभिहरेयुः।

4775  दुर्भिक्षस्तेनाटव्युपघातेषु च पौरजानपदानुत्साहयन्तः[२] सत्रि- णो ब्रूयुः--" राजानमनुग्रहं याचामहे ; निरनुग्रहाः परत्र गच्छा- म:" इति ।

तथेति प्रतिपन्नेषु द्रव्यधान्यपरिग्रहैः ।
साचिव्यं कार्यमित्येतदुपजापाद्भृतं महत् ।।

इति दुर्गलम्भोपाये त्रयोदशेऽधिकरणे उपजापाः प्रथमोऽध्यायः
आदित एकचत्वारिंशच्छतः

१७२ प्रक. योगवामनम्.

 मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुः ब्रुवाणः

प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत् । शिष्याश्चास्य मूल-

फलोपगमनेरमात्यानाजानं च भगवद्दर्शनाय योजयेयुः। समाग- 478 1 तश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्----" शतेशते च

वर्षाणां पूर्णेऽहमग्निं प्रविश्य पुनर्बालो भवामि ; तदिह

  1. 1 व्याल,
  2. 2 नुत्सादयन्त