पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६-१७ प्रक]
393
योगदण्डातिसन्धानकविजया:

 मित्रव्यजनो वा बाह्यस्य प्रेषयेत् --"क्षीणमस्मिन् दुर्गे 473 1 धान्यं स्नेहाःक्षारो[१] लवणं वा; तदभुष्मिन्[२] देशे काले च प्रवे क्ष्यति । तदुपगृहाण' इति । ततो रसविद्धधान्यस्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः; अन्ये वा अभिव्यक्ताः।

 तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम् । सन्धि वा कृत्वा हिरण्यैकदेशमस्मै दद्यात्। विलम्बमानश्शे षम् । ततो रक्षाविधानान्यवत्रावयेत् ; अग्निरसशस्त्रैर्वा पहरेत् । हिरण्यप्रतिग्राहिणो वाऽस्य वल्लभाननुगृह्णीयात् । परिक्षीणो वाऽस्मै दुर्गे दत्वा निर्गच्छेत् । सुरुङ्गया कुक्षिप्र- दरेण वा प्राकारभेदेन निर्गच्छेत् । रात्राववस्कन्दं दत्वा सिद्धस्तिष्ठेत् । असिद्धः पार्थेनापग- च्छेत् । पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत । प्रेतव्यञ्ज- नो वा गूढैर्निह्रियेत । स्त्रीवेषधारी वा प्रेतमनुगच्छेत् । दैव- तोपहारश्राद्धप्रहवणेषु वा रसविद्धमन्नपानमवसृज्य कृतोपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात् । एवं गृहीतदुर्गो वा प्राश्य प्राशं चैत्यमुपस्याप्य दैवतपतियाच्छिद्रं प्रविश्यासीत ; गूढभित्तिं वा दैवतप्रतिमायुक्तं वा भूमिगृहम् । विस्मृते सुरुङ्गया रात्रौ राजावासमनुप्रविश्य सुलममित्रं हन्यात् । यन्त्रविश्ले- षणं वा विश्लेष्याधस्तादवपातयेत् । रसाग्नियोगेनाबलिप्तं गृहं 473 4 जतुगृहं वाऽधिशयानममित्रमादीपयेत् । प्रमदवनविहाराणामन्य-

  1. 1 स्नेहक्षारो.
  2. 2 तदमुष्मिन्दुर्गे बध्य स्नेहक्षारो लवणं वा तदमुष्मिन्