पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८-१७० प्रक]
391
योगदण्डातिसन्धानकाविजया

योगवामनयोगाभ्यां योगेनान्यतमेन वा । 4703
अमित्रमतिसदध्यात सक्तमुक्तासु भूमिषु ।।

इत्याबलीयसे शस्त्राग्निरसप्रणिधय वीवधासारप्रसारवधश्च
चतुर्थोऽध्यायः । आदित एकोनचत्वारिंशच्छतः

१६८-१७० प्रक. योगातिसंधानं, दण्डाति-
संधानं, एकविजयश्च.

 दैवतेज्यायां यात्रायाममित्रस्य बहूनि पूज्यागमस्थानानि भक्तितस्तत्रास्य योगमुब्जयेत्। देवतागृहप्रविष्टम्योपरि यन्त्रमो क्षणेन गूढभित्तिं शिलां वा पातयेत् । शिलाशस्रवर्षमुत्तमा गारात् । कवाटमवपातितं का, भित्तिप्राणहितमेकदेशवन्धं वा परिघं मोक्षयेत् । देवतादेहस्थप्रहरणानि[१] वाऽस्योपरिष्टात् पा. तयेत् । स्थानासनगमनभूमिपु वाऽस्य गोमयप्रदेहेन शुद्धोदकप्र- सेकेन वा रसमतिचारयेत् । पुष्पचूर्णोपहारेण वा गन्धप्रति च्छिन्नं वाऽस्य तीक्ष्णं धूमपीतनयेत्। शूलकूपमवपातनं वा शय नासनस्याधस्ताधन्त्रबद्धतलमेनं कीलमोक्षणेन प्रवेशयेत् । प्र त्यासन्ने वाऽटव्यामित्रे जनपदाचानवरोध[२] क्षममतिनयत् । दुर्गा- च्चानवरोधक्षममपनयेत् । प्रत्यादेयमरिविषयं वा प्रेषयेत् । जन- पदं चैकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरि- गृहीतं स्थापयेत् ।   उपरोधहेतवो दण्डोपनतवृत्ते व्याख्याताः ।    4713

  1. 1 देहध्वजप्रहरणानि
  2. 2 जनपदार्जनमवरोध