पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८ प्रक]
421
प्रलम्भने भैषज्यमन्त्रयोगः


 सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् ।  5078

 सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ।।

 वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः ।

 वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ।।

 स्वाहा अमिले किमिले वयुजारे प्रयोगे फके कवयुश्वे विहाले

दन्तकटके स्वाहा ।

{{gap} }सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।

 श्वाविधः शल्यकं चैतन्तिश्वेतं ब्रह्मनिर्मितम् ।

 प्रसुप्तास्सर्वसिद्धा हि एतत्ते स्थापनं कृतम् ।

 यावद्नामस्य सीमन्त' सूर्यस्योद्गमनादिति ।।

स्वाहा।

 एतस्य प्रयोग:-श्वाविधः शल्यकानि त्रिश्वेतानि सप्तरात्रो-

षितः कृष्णचतुर्दश्यां खादिराभिस्समिधाभिर्ग्निमेतेन मन्त्रेणा-

ष्टशतसंपातं कृत्वा मधुधृताभ्यां अभिजुहुयात् । तत एकमेतेन

मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते, तत्सर्वं प्रस्वापयति ।

 बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।।

 निकुम्भं नरकं कुम्भं तन्तुकच्छं महासुरम् ॥

 अर्मालवं प्रमीलं च मण्डोलूकं घटोरलम् ।।

 कृष्णकंसोपचारं च पौलोमी च यशस्विनीम् ॥ 5087

 अभिमन्त्रय्य गृह्णामि सिद्धार्थं शवसारिकाम् ।


1 सीमान्त, 2 रस्साभेद्धामि, 3 शारिकाम,