पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६.१६७ प्रक]
389
शस्त्रानिरसप्रणिधय , विधासारप्रसारवधश्च

जनपदसन्धिषु गोरक्षकनापसव्यञ्जनाः, ने सामन्ताटविकत- 468 4 त्कुलीनावरुद्धानां पण्यागारपूर्व प्रेषयेयुः -"अयं देशो हार्यः" इति । आगतांश्चैषां दुर्गे गूढपुरुषानर्थमानाभ्यां अभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयु. । नेषु तैस्सह प्रहरेयुः॥

 स्कन्धावारे वाऽस्य शौण्डिकव्यञ्जनः पुत्रमभित्यक्तं[१] स्थाप- यित्वा अवस्कन्दकाले रसेन प्रवासयित्वा "नैषेचनिकम्[२] ॥ इति मदनरसयुक्तान् मद्यकुम्भांच्छतशः प्रयच्छेत् । शुद्धं वा मद्यं माधं वा मद्य दद्यादेकमहः उत्तरं रससिद्धं प्रयच्छेत् । शुद्धं वा मद्यं दण्डमुख्येभ्य प्रदाय मदकाले रससिद्धं प्रयच्छेत् ।

दण्डमुख्यव्यञ्जनो वा “पुत्रमभित्यक्तम्" इति--समानम् ।

 पक्कमांसिकौदनिकशौण्डिकापूपिकव्यञ्जना वा पण्यविशेष- 469 3 मवघोषयित्वा परस्परसङ्घर्षेण कालिक[३] समर्धतरामिति वा परा- नाहूय रसेन स्वपण्यान्यपचारयेयुः। सुराक्षीरदधिसर्पिस्तै- लानि वा तद्वयवहर्तृषु गृहीत्वा स्त्रियो बालाश्च रसयुक्तषु स्वभाजनेषु परिकिरेयुः । “अनेनार्धेण विशिष्टं वा भूयो दीयताम् " इति तत्रैवावकिरेयुः। एतान्येव वैदेहकव्यञ्जनाः पण्यविक्रयेणाहारो[४] वा हस्त्यश्वाना विधायवसेषु रसमा- सन्ना दध्युः।

  1. 1 मंभियुक्तं
  2. 2 ततो नैषचानकम् .
  3. 3 कालिक स
  4. 4 Aणामारी.