पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
426
[१५ अधि १ अध्या.
तन्त्रयुक्ति

5186  प्रियङ्गुमञ्जिष्ठतगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जूदक-

विषप्रहारपतननिरसंज्ञानां पुनः प्रत्यानयनाय । मनुष्याणामक्ष

मात्रं, गवाश्वानां द्विगुणं; चतुर्गुण हस्त्युष्ट्राणां;

 रुक्मगर्भश्चैषा मणिस्सर्वविषहरः ।

 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानामक्षिपे जातस्य अश्व

त्थस्य मणिः सर्वविषहरः।

 तूर्याणां तैः प्रलिप्ताना शब्दो विषविनाशनः ।

 लिप्तध्वजं पताकं वा दृष्ट्वा भवति निर्विषः ॥

 एतैः कृत्वा प्रतीकारं स्वसैन्यानामथात्मनः ।

5141  अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान् ।।

इत्यौपनिषदिके चतुर्दशेऽधिकरणे स्वबलोपधातप्रतीकार.

 चतुर्थोऽध्याय । आदित एकोनपञ्चाशच्छतः । एना-

  वता कौटिलीयस्यार्थशास्त्रस्यौपनिषदिकं

   चतुर्दशमधिकरण समाप्तम्



  १५ अधि. तन्त्रयुक्तिः,


  ३८० प्रक. तन्त्रयुक्तयः


8151  मनुष्याणां वृत्तिरर्थः; मनुष्यवती भूमिरियर्थः; तस्या,

पृथिव्या लाभपालनोपायः शास्त्रमर्थशास्त्रमिति ।

 तत् द्वात्रिंशद्युक्तियुक्तं-अधिकरणं, विधानं, योगः, पदा-

र्थः, हेत्वर्थः, उद्देशः, निर्देश', उपदेशः, अपदेशः, अतिदेशः,