पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
435
चाणक्यसूत्राणि

43 राज्यतन्त्रायतं नीतिशास्त्रम् ।
44 राज्यतन्त्रेष्वायत्तौ तन्त्रावापौ।
45 तन्त्रं स्वविषयकृत्येष्वायत्तम् ।
46 आवापो मण्डलनिविष्ट !
47 सन्धिविग्रहयोनिमण्डलः।
48 नीतिशास्त्रानुगो राजा।
49 अनन्तरप्रकृतिश्शत्रुः ।
50 एकान्तरितं मित्रमिष्यते ।
51 हेतुतश्शत्रुमित्रे भविष्यतः !
52 हीयमानस्सन्धि कुर्वीत ।
53 तेजो हि संधानहेतुस्तदर्थानाम् ।
54 नातप्तलोहो लोहेन संधीयते ।
55 बलवान् हीनेन विगृह्णीयात् ।
56 न ज्यायसा समेन वा ।
57 गजपादयुद्धमिव बलवद्विग्रहः ।
58 आमपात्रमामेन सह विनश्यति ।
59 अरिप्रयत्नमभिसमीक्षेत ।
6) संधायैकतो वा।
61 अमित्रविरोधादात्मरक्षामावसेत् ।
62 शक्तिहीनो बलवन्तमाश्रयेत् ।
63 दुर्बलाश्रयो दुःखमावहति ।
64 अग्निवद्राजानमाश्रयेत् ।

1 VII 1 हीयमानस्सदधीत VII 3 तेजो हि संधानकारणम्, 3 VII 3 नातप्त लोह लोहेन सन्धत्ते. VIT 3 हीनेन विगृह्णीयात्

5 VII, 15. y 4