पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
436
अर्थशास्त्र

65 राज्ञः प्रतिकूलं नाचरेत् ।
66 उद्धतवेषधरो न भवेत् ।
67 न देवचरित चरेत् ।
68 द्वयोरपीर्ष्य॑तोः द्वैधीभाचं कुर्वीत ।
69 न व्यसनपरस्य कार्यावाप्तिः ।
70 इन्द्रियवशवर्ती चतुरङ्गवानपि विनश्यति ।
71 नास्ति कार्यं द्यूतप्रवृत्तस्य ।
72 मृगयापरस्य धर्मार्थौ विनश्यतः ।
73 अर्थेषणा न व्यसनेषु गण्यते ।
74 न कामासक्तस्य कार्यानुष्ठानम् ।
75 अग्निदाहादपि विशिष्ट वाक्पारुष्यम् ।
76 दण्डपारुष्यात्सर्वजन द्वेष्यो भवति ।
17 अर्थतोषिणं श्रीः परित्यजति ।
78 अमित्रो दण्डनीत्यामायत्तः ।
79 दण्डनीतिमधितिष्ठन प्रजासंरक्षति ।
80 दण्डस्संपदा योजयति ।
81 दण्डाभावे मन्त्रिवर्गाभावः।
82 न दण्डादकार्याणि कुर्वन्ति ।
83 दण्डनीयामायत्तमात्मरक्षणम् ।
84. आत्मनि रक्षिते सर्वं रक्षितं भवति ।
85 आत्मायत्तौ बृद्धिविनाशौ।
86 दण्डो हि विज्ञाने प्रणीयते ।
87 दुर्बलोपि राजा नावमन्तव्यः ।
88 नास्त्यर्ग्नैदौर्बल्यम्।

174 21.6 अवश्येन्द्रिय. -

-