पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
438
अर्थशास्त्र

114 सर्वाश्च संपदः सर्वोपायेन परिग्रहेत् ।
116 भाग्यवन्तमपरीक्ष्यकारिणं श्रीः परित्यजति ।
116 ज्ञानानुमानैश्च परीक्षा कर्तव्या ।
117 यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेत् ।
113 दुस्साधमपि सुसाध करोत्युपायज्ञः ।
119 अज्ञानिना कृतमपि न बहुमन्तव्यम् ।
120 यादृच्छिकत्वात् कृमिरपि रूपान्तराणि करोति ।
121 सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ।
122 ज्ञानतामपि दैवमानुषदोषात्कार्याणि दुष्यन्ति ।
123 दैवं शान्तिकर्मणा प्रतिषेद्धव्यम् ।
124 मानुषी कार्यविपत्ति कौशलेन विनिवारयेत् ।
125 कार्यविपत्तौ दोषान् वर्णयन्ति बालिशा ।
126 कार्यार्थिना दाक्षिण्यं न कर्तव्यम् ।
127 क्षीरार्थी वत्सो मातुरूधः प्रतिहन्ति ।
128 अप्रयत्नात्कार्यविपत्तिर्भवेत् ।
129 न दैवप्रमाणानां कार्यसिद्धिः।
130 कार्यबाह्यो न पोषयत्याश्रितान् ।
131 यः कार्य न पश्यति सोऽन्ध ।
132 प्रत्यक्षपरोक्षानुमानैः कार्याणि परीक्षेत ।
133 अपरीश्यकारिणं श्रीः परित्यजति । .
134 परीक्ष्य तार्या विपत्तिः।
135 स्वशक्ति ज्ञात्वा कार्यमारभेत !
136 स्वजनं तर्पयित्वा यश्शेषभोजी सोऽमृतभोजी ।
137 सर्वानुष्ठानादायमुखानि वर्धन्ते ।

II. 6.