पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
388
[१३ आधि. ६ अध्या.
आबलीयसम्

4678  सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभ. यित्वा स्वेषु विक्रमयेदपवाहयेद्वा । योऽस्य पुत्रस्समीपे दुर्गे वा प्रतिवसति, तं सत्रिणोपजापयेत् ---" आत्मसम्पन्नतरस्त्वं पुत्रः तथाऽप्यन्तर्हितः । तत्किमुपेक्षसे ? विक्रम्य गृहाण; पुरा त्वा युवराजो विनाशयति" इति ॥

 तत्कुलीनमवरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्--"अ. न्तर्बलं प्रत्यन्तस्कन्धमन्तं वाऽस्य प्रमृद्गीहि" इति ।।

 आटविकानर्थमानाभ्यामुपगृह्य राज्यमस्य घातयेत् । पार्ष्णि- ग्राहं वाऽस्य ब्रूयात्-“अहं वः सेतुः; मयि विभिन्ने सर्वानेष प्लवो राजा प्लावयिष्यति" इति। “सम्भूय वाऽस्य यात्रां विह नाम" इति । तत् संहतानामसंहतानां च प्रेषयेत्-"एष खलु राजा मामुत्पाट्य भवत्सु कर्म करिष्यति बुध्यध्वं अहं वः श्रे- यानभ्यवपत्तुम्” इति

मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः ।
यथाऽऽमन्नस्य मोक्षार्थं सर्वस्वेन तदपर्णम्[१]

इत्याबलीयसे सेनामुख्यवधः, मण्डलप्रोत्साहनं च
तृतीयोऽध्याय आदितोऽष्टत्रिंशच्छतः
१६६-१६७ प्रक. शस्त्राग्निरसप्रणिधयः,
वीवधासारप्रसारवधश्च.

468 4 ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेषु गृहपतिकव्यञ्जनाः

- - -

  1. 1 त्वदर्पणम् .