पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
443
चाणक्यसूत्राणि

236 दया धर्मस्य जन्मभूमिः ।
237 धर्ममूले सत्यदाने।
238 धर्मेण जयति लोकान् ।
239 मृत्युरपि धर्मिष्ठं रक्षति ।
240 धर्माद्विपरीतं पापं यत्रयत्र प्रसज्यते तत्र धर्मावमतिमहती
प्रसज्यते।
241 उपस्थितावनाशानां प्रकृत्या' कार्येण लक्ष्यते ।
242 आत्मविनाशं सूचयत्यधर्मबुद्धि ।
243 पिशुनवादिनो रहस्यम् ।
244 पररहस्यं नैव श्रोतव्यम् ।
245 वल्लभस्य कारकत्वमधर्मयुक्तम् ।
246 स्वजनेष्वतिक्रमो न कर्तव्य ।
247 माताऽपि दुष्टा त्याज्या।
248 स्वहस्तोपि विषदिग्धश्छेद्य ।
249 परोपि च हितो बन्धुः।
250 कक्षादप्यौषधं गृह्यते ।
251 नास्ति चोरेषु विश्वासः ।
252 अप्रतीकारेष्वनादरो न कर्तव्यः ।
253 व्यसनं मनागपि बाधते।
254 अमरवदर्थजातमार्जयेत् ।
255 अर्थवान् सर्वलोकस्य बहुमत ।
256 महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ।
257 दारिद्रयं खल्ल पुरुषस्य जीवितं मरणम् । ।
258 विरूपोऽर्थवान सुरूपः।
1 प्रकृतिराकारेण इति सुपाठ. 2न रहस्यम् इति सुगम ,