पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
444
अर्थशास्त्र

259 अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ।
26t) अकुलीनोपि कुलीनाद्विशिष्ट ।
261 नास्त्यमानमयमनार्यस्य ।
262 न चेतनवतां वृतिभयम् ।
263 न जितेन्द्रियाणां विषयभयम् ।
264 न कृतार्थानां मरणभयम् ।
265 कस्यचिदर्थं स्वमिव मन्यते साधु ।
266 परविभवेष्वादरो न कर्तव्यः ।
207 परविभवेष्वादरोपि नाशमूलम् ।
28 पलालमपि परद्रव्य न हर्तव्यम् ।
269 परद्रव्यापहरणमात्मद्रव्यनाशहेतु. ।
270 न चौर्यात्परं मृत्युपाशः।
371 यवागूरवि प्राणधारणं करोति काले ।
272 न मृतस्यौषधं प्रयोजनम् ।
273 समकाले स्वयमपि प्रभुत्वस्य प्रयोजनं भवति ।
374 नीचस्य विद्या पापकर्मणि योजयन्ति ।
275 पयःपानमपि विषवर्धन भुजङ्गस्य नामृतं स्यात् ।
276 न हि धान्यसमो ह्यर्थ ।
277 न क्षुधासमशत्रुः।
278 अकृतेर्नियता क्षुत् ।
279 नास्त्यभक्ष्यं क्षुधितस्य ।
230 इन्द्रियाणि जरावशं कुर्वन्ति ।
251 सानुक्रोशं भर्तारमाजीवेत् ।
282 लुब्धसेवी पावकेच्छया खद्योतं धमति ।
283 विशेषज्ञं स्वामिनमाश्रयेत् ।