पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
448
अर्थशास्त्र

359 अप्रमत्तो दारान् निरीक्षेत ।
360 स्त्रीषु किंचिदपि न विश्वसेत्
361 न समाधिः स्त्रीषु लोकज्ञता च
362 गुरूणां माता गरीयसी !
363 सर्वावस्थासु माता भर्तव्या ।
364. वैदुष्य मलङ्कारेणाच्छाद्यते ।
365 स्त्रीणां भूषणं लजा।
366 विप्राणां भूषणं वेद ।
367 सर्वेषां भूषणं धर्मः ।
368 भूषणानां भूषणं सविनया विद्यते।
369 अनुपद्रवं देशमावसेत् ।
370 साधुजनबहुळो देशः।
371 राज्ञो भेतव्यं सार्वकालम् ।
372 न राज्ञ परं देवतम् ।
373 सुदूरमपि दहति राजवह्नि ।
374 रिक्तहस्तो न राजानमामिंगच्छेत्
375 गुरुं च दैवं च।
36 कुटुम्बिनो भेतव्यम् ।
377 गन्तव्यं च सदा राजकुलम् ।
378 राजपुरूषैस्संबन्धं कुर्यात् ।
379 राजदासी न सेवितव्या।
380 न चक्षुषाऽपि राजानं निरीक्षेत
381 पुत्रे गुणवति कुटुम्बिन स्वर्गः ।
382 पुत्रा विद्यानां पारं गमयितव्याः ।