पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
449
चाणक्यसूत्राणि

883 जनपदार्थं ग्रामं त्यजेत् ।
384 ग्रामार्थ कुटुम्बस्त्यज्यते ।
385 अतिलाभः पुत्रलाभः ।
386 दुर्गते पितरौ रक्षति स पुत्र ।
387 कुलं प्रख्यापयति पुत्रः ।
388 नानपत्यस्य स्वर्गः।
385 या प्रसूते भार्या
390 तीर्थसमवाये पुत्रवतीमनुगच्छेत् ।
391 सतीर्थाभिगमनाब्रह्मचर्यं नश्यति ।
392 न परक्षेत्रे बीजं विनिक्षिपेत् ।
393 पुत्रार्था हि स्त्रियः ।
384 स्वदासीपरिग्रहो हि स्वदासभावः ।
395 उपस्थितविनाश. पथ्यवाक्यं न शृणोति ।
396 नास्ति देहिनां सुखदुखाभावः।
397 मातरमिव वत्साः सुखदुःखानि कर्तारमेवाजुगच्छन्ति ।
398 तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः ।
899 उपकारोऽनार्येष्वकर्तव्यः।
400 प्रत्युपकारभयादनार्यशत्रुर्भवति।
401 स्वल्पमप्युपकारकृते प्रत्युपकार कर्तुमार्यों न स्वपिति ।
402 न कदापि देवताऽवमन्तव्या ।
403 न चक्षुषः सम ज्योतिरस्ति ।
404 चक्षुर्हि शरीरिणां नेता।
405 अपचक्षुष. किं शरीरेण ।
406 नाप्सु मूत्रं कुर्यात् ।

स्प भार्या, अर्थशास्त्र, III. 2 तीर्थसमवाये . जीवत्पुत्रा गच्छेत् । 57 Home - --

-