पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६० प्रक.]
187
विक्रीतक्रीतानुशय

दक्षिणां हरेयुः । असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वस्साहसदण्डः।
अनाहिताग्निश्शतगुरयज्वा च सहस्त्रगुः ।
मुरापो वृषलीभतो ब्रह्महा गुरुतल्पगः ।

असत्पतिग्रहे युक्तः स्तेनः कुत्सितयाजकः ।
अदोषस्त्यक्तुमन्योन्यं कर्मसङ्करानिश्चयात् ॥

इति धर्मस्थीये दासकर्मकरकल्पे भूतकाधिकारः

सम्भूयसमुत्थानं चतुर्दशोऽध्यायः

आदित एकसप्तति.


६७ प्रक. विक्रीतक्रीतानुशयः.


 विक्रीय[१] पण्यमप्रयच्छतो द्वादशपणो दण्डः अन्यत्र दोषो- पनिपाताविषयेभ्यः।
 पण्यदोषो दोषः । राजचोराग्नयुदकबाध उपनिपात. ! बहु- गुणहीनमार्तकृतं वाऽविषह्यम् ।
 वैदेहकानामेकरात्रमनुशय । कर्षकाणां त्रिरात्रम् । गोरक्ष- काणां पञ्चरात्रम् । व्यामिश्राणां उत्तमानां च वर्णानां विवृत्ति-[२] विक्रये सप्तरात्रम् ।
 आतिपातिकानां पण्यानामन्यत्राविक्रेयमित्यविरोधेनानुसयो देयः । तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा ।

१विक्रय २ निवृत्ति



  1. विक्रय
  2. निवृत्ति.