"मर्ता वा कारयन्नान्यस्त्वया कारयितव्यो मया वा 2344
नान्यस्य कर्तव्यम्" इत्यपरे[१]॥
भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः ।
कर्मनिष्ठापने भतुरन्यत्र गृहीतवेतनो नासकामः कुयोत् ॥
"उपस्थितमकारयत कृतमेव विद्यात" इत्याचार्या ॥
"न इति कौटि[२] ल्य' । कृतस्य वेतनं, नाकृतस्यास्ति ।
स चेदल्पमापि कारयित्वा न[३] कारयेत् । कृतमेव अस्य वि
द्यात् । देशकालातिपातनेन कर्मणामन्यथा करणे वा न[४]
सकामः कृतमनुमन्येत । सम्भाषितादधिकक्रियायां प्रयासा-[५]
न्मोघं कुर्यात् ॥
तेन सङ्घभृता व्याख्याताः । तेषामाधिस्सप्तरात्रमासीत ।
ततोऽन्यमुपस्थापयेत् । कर्मनिष्पाकं च । न चानिवेद्य भर्तुस्स-
ङ्घः किञ्चित्परिहरेत् , अपनयेद्वा । तस्यातिक्रमे चतुर्विंशति-
पणो दण्ड । सङ्घेन परिहृतस्यार्धदण्डः ॥
इति भृतकाधिकारः ॥
सङ्घभृतास्सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं
वा विभजेरन् ॥
कर्षकवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य
यथाकृतस्य कर्मणः प्रत्यंशं दध्युः । पुरुषोपस्थाने समग्रमंशं
दध्य़ुः । संसिद्धे तु धृत[६] "पण्ये सन्नस्य तदानीमेव प्रत्यंशं दध्युः ।
सामान्या हि पथि सिद्धिश्चासिद्धिश्च ॥
१इत्यविरोधे भर्तृरकारयतो २ ट ३ नास्ति ४ नास्र ५प्रयास ६तूदधृत