उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात् । द्वादशपणं
च दण्डम् । उपभोगनिमित्तं नष्टं [१]वाऽभ्याभवेञ्चतुर्विंशतिपणश्च
दण्डः । अन्यथा वा निष्पतने ।।
प्रेत[२]व्यसनगत वा नोपनिधिमभ्याभवेत् ॥
आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपत्रबन्धो दण्डः ।
परिवर्तने निष्पातने वा मूल्यसमः ॥
तेन आधिप्रणाशोपभोगविक्रयाधानापहारा व्याख्याताः ॥
नाधिस्सोपकार. सीदेन्न चास्य मूल्यं वर्धेत । नि[३]रुपकार-
स्सीदेन्मूल्यं चास्य वर्धेत[४] ॥
'उपस्थितस्याधिमप्रयच्छतो द्वादशपणो दण्डः ॥
प्रयोजकासन्निधाने वा ग्रामवृद्धेषु स्थापायेत्वा निष्क्रय-
माधि प्रतिपद्येत । निवृत्तवृद्धिको[५]वाऽऽधिस्तत्कालकृतमूल्यस्तैत्र-
वावतिष्ठेत । अनाशविनाशकरणाधिष्ठितो वा धारणस[६]न्नि-
धाने वा विनाशभयादुद्गता धर्मस्थानुज्ञातो विक्रीणीत । आधि-
पालप्रत्ययो वा ।।
स्थावरस्तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्य[७]-
शुद्धमाजीव[८] ममूल्यक्षयेणोपनयेत् ॥