पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
240
[५ अधि.१ अध्या
योगवृत्तम्

299 5 प्रतिपन्नं कर्मणि रसेन लोहमुसलैर्वा घातयत्-कर्मल्यापदा

हतः” इति ॥
 चिकित्सकव्यञ्जनो वा दौरामिक[१] मसाध्यं वा व्याधि दू-
ष्यस्य स्थापयित्वा भैषज्याहारयोगेषु रसेनातिसन्दध्यात् ।।
 सूदाराळिकव्यञ्जना वा प्रणिहिता दूष्य रसेनातिसन्दध्युः
इत्युपनिषत्प्रतिषेधः॥
 उभयदूष्यप्रतिषेधस्तु-यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यमेव
फल्गुबलतीक्ष्णयुक्तं प्रेषयेत्--" गच्छामुष्मिन् दुर्गे राष्ट्र वा
सैन्यमुत्थापय ; हिरण्यं वा । वल्लभाद्हा हिरण्यमाहारयः बल्ल
भकन्यां वा प्रसह्यानय ; दुर्गसेतुबाणक्पथशून्यनिवेशखनिद्रव्य
हस्तिवनकर्मणामन्यतमद्वा कारय; राष्ट्रपाल्यमन्तपाल्यं वा;
यश्च त्वा प्रतिषेधयेन्न वा ते साहाय्यं दद्यात्, स बन्धव्य
स्स्यात्" इति । तथैव इतरेषां प्रेषयेत् “अमुष्याविनयः प्रति
षेद्धव्यः" इति । तमेतेषु कलहस्थानेषु कर्मप्रतिधातेषु वा
विवदमानं तीक्ष्णाश्शस्त्रं पातयित्वा प्रच्छन्न इन्युः । तेन दोषे.
णेतरे नियन्तव्या.।

300.6  पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमाक्षेत्रफ[२] लवे.

श्ममर्यादामु द्रव्योपकरणसस्यवाहनहिंसासु प्रेक्षाकृत्योत्सवेषु
वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाश्शस्त्रं पात

  1. 1 दौरात्मिक.
  2. खल.