पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
280
[४ अधि. १२ अध्या.
कण्टकशोधनम्

267 11  विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीमप प्रवेशयेत् ।।

 अगर्भिणी गर्भिणी मासावरप्रजातां पतिगुरुप्रजाघातिकां
अग्निविषदा सन्धिच्छेदिकां वा गोभिः पाटयेत् ॥
 विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकमाग्निना दाहयेत् ॥
 राजाक्रोशकमन्त्रभेदकयोरानिष्टप्रवृत्तिकस्य ब्राह्मणमहानसाव-
लेहिनश्च जिहामुत्पाटयेत ।।
 प्रहरणावरणस्तेनमनायुधीयमिषुभिर्धातयेत् । आयुधीयस्यो

त्तमः

 मेढ्रफलोपघातिनस्तदेव छेदयेत् ।।
 जिह्वानासोपघाते[१] संदंशवधः ॥
 एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनां ।
 अक्लिष्टानां तु पापानां धर्म्यश्शुद्धवधस्मृतः ॥

इति कण्टकशोधने शुद्धश्चित्रश्च दण्डकल्प एका.
शोऽध्यायः आदितोऽष्टाशीति



९७ प्रक. कन्याप्रकर्म.



9889  सवर्णीमप्राप्तफलां कन्यां प्रकुर्वतो हस्तवधश्चतुश्शतो वा

दण्डः। मृतायां वधः ॥

  1. 1 जिह्वानसोरुपघात,