पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
228
[ अधि, ११ अध्या.
कष्टकशोधनम्

285.5  [१]चोरं पारदारिकं वा मोक्षेयता [२]राजशासनमूनमतिरिक्तं

वा लिखतः कन्यां दासीं वा साहिरण्यमपहरतः [३]कूटव्यव
हारिणो [४]विमांसविक्रायिणश्च वामहस्तद्विपादवधो नवशतो वा
दण्डः। मानुषमांसविक्रये वध । देवपशुपतिमामनुष्यक्षेत्रगृहहिर-
ण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः शुद्धबधो वा !!
 पुरुषं चापराधं च कारणं गुरुलाधवम् ।
 अनुबन्धं नदात्वं च देशकालो समीक्ष्य च ।।
 उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि।
 राज्ञश्च प्रकृतीनां च कल्पयेदन्तरान्वितः[५]

इति कण्टकशोधने एकावधनिष्क्रयो दशमोऽध्याय
आदितः सप्ताशीतिः



C६ प्रक, शुद्धश्चित्रश्च दण्डकल्प:.



 कलहे घ्नतः पुरुषं चित्रो धातः । सप्तरात्रस्यान्तः मृते
शुद्धवधः । पक्षस्थान्तरुत्तमः । मासस्यान्तः पञ्चशतः समु.
त्थानव्ययश्च ।।

986 4  शस्त्रेण प्रहरत उत्तमो दण्डः । मदेन हस्तवधः । [६]वधः ।।


  1. याश्य. II.296
  2. याश्य. II.296
  3. याश्य, II,297.
  4. याश्य, II,297.
  5. अन्तरास्थितः
  6. 6 मोहन द्विशतः । वधे.