पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

८४ प्रक.] सर्वाधिकरणरक्षणम् 225 पुनरपराधे द्विगुणं , स्थानाव्यपरोहणं च ।। लेखकश्चेदुक्तं न लिखत्यनुक्तं लिखति दुरुक्तमुपलिखति, 9816 सुक्तमुल्लिखत्यर्थाद्वा विकल्पयतीति, पूर्वमस्मै साहसदण्डं कु- र्यात् याथाऽपराधं वा ॥ धर्मस्थः प्रदेष्टा वा हैरण्यमदण्ड्य क्षिपति क्षेपद्विगुणमस्मै दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं वा शरीरदण्र्ड क्षि- पति, शरीरमेव दण्डं भजेत । निष्क्रयद्विगुणं वा। यं वा भूतमर्थं नाशयत्यभूतमर्थं करोति तदष्टगुणं दण्डं दद्यात् ।। धर्मस्थीयाच्चारकान्निसारयतो बन्धनागाराच्छय्यासनभो- 2825 जनोच्चारसञ्चारं रोधबन्धनेषु त्रिपणोत्तरा दण्डाः कर्तुः का- रयितुश्च ॥ चारकादभयुक्त मुञ्चतो निष्पातयतो वा मध्यमः साह- सदण्ड. अभियोगदानं च । बन्धनागारात्सर्वस्वं वधश्च । वन्धनागाराध्यक्षस्य संक्रुद्धक मनाख्याय चारयतश्चतुर्विंशतिप- णो दण्ड । कर्म कारयतो द्विगुणः । स्थानान्यत्वं गमय- तोऽन्नपानं वा रुन्धतष्षण्णवतिर्दण्डः परिक्लेशयत उत्को ट्यतो वा मध्यमस्साहसदण्डः । घ्नतस्साहस्रः ॥ परिगृहीतां दासीमाहितिकां वा संरूद्धिकामाधिचरतः पू- वस्साहसदण्डः। चोरडामरिकाभार्या मध्यमः । संरूद्धि कामार्यामुत्तमः । संरुद्धस्य वा तत्रैव घातः। तदेवाक्षण- 283 2 1 नाद्यवरोपण 2 मुल्लिग्वत्यर्थोत्पत्ति वा. ३रण्यदण्ड, । ४सम्भार५ निष्पा- तयितुर्वा.६ सरुद्धक

a