पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
378
११ आधि, १ अध्य,
संघवृत्तम्

   ११ अधि. संधवृत्तम्


१६०-१६१ प्रक भेदोपादानानि, उपांशुदण्डश्च.                                         4551  सङ्घलामो दण्डमित्रलाभानामुत्तम । सङ्घाभिसंहतत्वादधृ- ष्यान् परेषां ताननुगुणान् भुञ्जीत सामदानाभ्याम् । द्विगुणान् भेददण्डाभ्याम् ।

काम्भोजसुराष्ट्रक्षत्रियश्रेण्यादयो वार्ताशस्त्रोपजीविनः ।
लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजश

ब्दोपजीविनः ।  सर्वेपामासन्ना. सत्रिण सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्था- नान्युपलभ्य क्रमाभिनीतं भेदमपचारयेयु:-" असौ त्वा विजल्प- ति" इति। एवमुभयतोवद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वा- चार्यव्यञ्जना बालकलहानुत्पादयेयुः । वेशशौण्डिकेषु वा प्र तिलोमप्रशंसाभिः सङ्घमुख्यमनुष्याणां तीक्ष्णा कलहानुत्पादये- यु । कृत्यपसोपग्रहेण वा कुमारकान् विशिष्टच्छिन्दि'कया हीन च्छिन्दि[१]कानुत्साहयेयु. । विशिष्टाश्चैकपात्रं विवाह[२] हीनेभ्यो वारयेयुः । हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः । अवहीनान् वा तुल्यभावोपगमने कुलतः पौरुषतः स्थानवि- पर्यासतो वा व्यवहारमवस्थितं वा प्रतिलोमस्थापनेन निशा मयेयुः। विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः 4561 कलहानुत्पादयेयुः। सर्वेषु च कलहस्थानेषु हीनपक्षं राजा


  1. 1छन्दि.
  2. 2 पात्रीनवाई.