पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
216
[४ अवि. ६ अध्या
कण्टकशोधन

2714 वृत्यकर्म वामुष्य" इति । तस्यावसरमतिसन्धानेन मुच्येत ।

“ नैवम् " इत्यपसारो वा बूयात् ।
 रूपाभिगृहीतः परस्य दानकारणमात्मनः प्रतिग्रहकारण-
मुपलिड्नं वा दायकदापकनिबन्धकप्रतिग्राहकोपदेष्टुभिरुपश्रो-
तृभिर्वा प्रतिसमानयेत् ॥
 उज्झितप्रणष्टनिष्पतितापलब्धस्य देशकाललाभोपलिङ्गनेन
शुद्धिः । अशुद्धस्तच्च तावच दण्डं दद्यात् । अन्यथा स्तेय-
दण्डं भजत ॥
 इति रूपाभिग्रहः !!
 कर्माभिग्रहस्तु-मुषितवेश्मनः प्रवेशनिष्कसनमद्वारेण द्वार-
स्य सन्धिना बीजेन वा वेधमुत्तमागारस्य जालवातायन
नीव्रर[१] वेधमारोहणावतरणे च कुड्यस्य वेधमुपखननं वा गूढ-
द्रव्यनिक्षेप[२] ग्रहणोपायमुपदेशोपलभ्यमभ्यन्तरच्छेदोत्करपरिम-
र्दोपकरणमभ्यन्तरकृतं विद्या विपर्यये बाह्यकृतं उभयत उभ-
यकृतम् ।।

2724  अभ्यन्तरकृते पुरुषमासन्नं व्यसनिनं क्रूरसहायं तस्करो-

पकरणसंसर्ग स्त्रिय वा दरिद्रकुलामन्यप्रसक्तां वा परिचारकजनं
वा तद्विधाचारमतिस्वप्नं निद्राक्लान्तमाविक्लान्तमाविग्नं[३] शुष्कभि-
न्नस्वरमुखवर्णमौपस्थित[४] मतिपलापिनमुञ्चारोहणसंरब्धगात्रं वि-

  1. 1 मी.
  2. क्षेपण,
  3. निद्राक्लान्तमाविन,
  4. वर्णमनस्थित.