शूद्र एव वैश्यस्य ।।
सवर्णासु चैषामचरितव्रतेभ्यो जाता व्रात्याः ॥
इत्यनुलोमाः ।।
शूद्रादायोगक्षतचण्डाला ॥
वैश्यान्मागधवैदेहको ॥
क्षत्रियात्सूतः॥
पौराणिकस्त्वन्यस्सूतो मागधश्च ब्रह्मक्षत्राद्विशेषत.[१] ।।
स्वधर्मातिक्रमाद्राज्ञस्सम्भवन्ति
उग्रन्नैषाद्या कुटकः[२] । विपर्यये पुल्कसः । वैदेहिकायामम्ब.
ष्ठाद्वैण।
विपर्यये कुशीलवः । क्षत्तायामुग्राच्छुपाक' इत्यतेऽन्ये[३] चान्त-
राळाः ॥
कर्मणा वैण्यो रथकार । तेषां स्वयोनौ विवाह । पूर्वापर-
गामित्वं वृत्तानुवृत्तं च स्वधर्मान्[४] स्थापयेत् । शूद्रसधर्माणो वा
अन्यत्र चण्डालेभ्यः ॥
केवलमेवं वर्तमानस्वर्गमानोति राजा नरकमन्यथा सर्वेषा-
मन्तराळानां समो विभागः ।।
देशस्य जात्या मद्यस्य धर्मो ग्रामस्य वाऽपि यः।
उचितस्तस्य तेनैव दायधर्म प्रकल्पयेत् ॥
इति धर्मस्थीये दायविभागे पुत्रविभाग सप्तमोऽध्याय
दायाविभागस्समाप्त अदितश्चतुष्षष्ठितमोऽध्याय .