पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८० प्रक]
213
सिद्धव्यञ्जनैणिवप्रकाशनम्

 तेषां कृतोत्साहानां महान्तं सङ्घमादाय रात्रावन्यं ग्राम- 267 4.
मुद्दिश्यान्यं ग्रामं कृतकाः स्त्रीपुरुषं गत्वा ब्रूयुः-" इहैव
विधाप्रभावो दृश्यताम् । कृच्छ्रः परग्रामो गन्तुम्" इति ।
ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य “प्रविश्यताम्" इति ।
ब्रूयुः । अन्तर्धानमन्त्रेण जाग्रतामारक्षिणां मध्येन माणवा-
नतिकमायेयुः, प्रस्थापनमन्त्रेण प्रस्थापयित्वा रक्षिणश्शय्या
भिर्माणवैस्सञ्चारयेयुः । संवनन[१] मन्त्रेण भार्याव्यञ्जनाः परेषां
माणवैस्संमोदयेयुः।
 उपलब्धविद्याप्रभावाणां पुरश्चरणाद्यादिशेयुरभिज्ञानार्थम् ।
 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयु. अनुपविष्टा-
न्वैकत्र ग्राहयेयुः।
 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान्या ग्राहयेयुः।
गृहीतान् पूर्वापदानसहायाननुयुञ्जीत ।
 पुराणचौरव्यञ्जना वा चोराननुप्रविष्टास्तथैव कर्म
कारयेयुः ग्राहयेयुश्च। गृहीतान् समाहर्ता पौरजानपदानां दर्श
येत्---" चोरग्रहणीं विद्यामधीते राजा तस्योपदेशादिमे
चोरा गृहीताः; भूयश्च ग्रहीष्यामि ; वारयितव्यो वस्त्वजनः
पापाचारः" इति ।
 यं चात्रापसर्पोपदेशेनमशम्याप्रतोदादीनामपहर्तारं जा. 268 6

नीयात्, तमेषां प्रत्यादिशेत, “एष राज्ञः प्रभाव" इति ।


  1. 1 सूबदन,