पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६० प्रक]
163
अशविभाग

 तयोर्मानुषोपेतो ज्येष्ठांशादर्धं लभेत ॥
 नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयो. कन्याकृतक्रियाभावे चैकस्याः, पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः ॥
 सूतमागधव्रात्यरथकाराणामैश्वर्यतो विभागः शेषास्तमुपजी- वेयुः। अनीश्वरास्समविभागा इति ॥
 चातुर्वर्ण्यपुत्रणां ब्राह्मणीपुत्रश्चतुरोंऽशान् हरेत् ॥
 क्षत्रियापुत्रस्त्रीनंशान् ।।
 वैश्यापुत्रो द्वावंशौ ॥
 एक शूद्रापुत्र ॥
 तेन त्रिवर्णद्विवर्णपुत्रविभाग क्षत्रियवैश्ययोव्याख्यात. ॥
 ब्राह्मणस्यानन्तरापुत्रस्तुल्यांशः; क्षत्रियवेश्ययोरर्धांशः, तु- ल्यांशो वा मानुषोपेत ॥ .
 तुल्यातुल्ययोरेकपुत्रस्सर्वं हरेत् । बन्धूंश्च विभृयात् ।।
 ब्राह्मणानां तु पारशवस्तृतीयमंशं लभेत । द्वावंशौ सपि- ण्डः कुल्यो वाऽऽसन्नः स्वधादानहेतोः। तदभावे पितुराचा- र्योऽन्तेवासी वा॥

क्षेत्रे वा जनयेदस्य नियुक्त क्षेत्रजं सुतम् ।
मातृबन्धुस्सगोत्रो वा तस्मै तत्प्रदिशेद्धनम् ।।

इति धर्मस्थीये दायविभागेऽशविभाग.

षष्ठोऽध्यायः आदितस्त्रिषष्टितम .