पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८ प्रक.]
207
उपनिपातप्रतीका

 देशकालान्तरितानां तु पण्याना-::: 2614

 प्रक्षेपं पण्यनिष्पत्तिं शुल्क वृद्धिमवक्रयम् ।
 व्ययानन्यांश्च सङ्ख्याय स्थापयेदर्धमर्धवित् ॥

इति कण्टकशोधने वैदेहकरक्षणं द्वितीयोध्याय
आदित एकोनाशीतिः



७८ प्रक. उपनिपातप्रतीकारः.



 देवान्यष्टौ महाभयानि -अग्निरुदकं व्याधिर्दुर्भिक्षं मूषि-
का व्यालास्सो रक्षांसीति ! तेभ्यो जनपदं रक्षेत् ।
 ग्रीष्मे बहिरधिश्रयणं ग्रामाः कुर्युः। दशमूलीसङ्ग्रहेणाधिष्ठिता
वा। नागरिकप्रणिधावाग्निप्रतिषेधो व्याख्यातः । निशान्तप्रणिधौ
राजपरिग्रहे च।
 बलिहोमस्वस्तिवाचनैः पर्वसु चामिपूजा. कारयेत् ।
 वर्षारात्रमनूप[१] ग्रामा पूरवेलामुत्सृज्य वसेयुः । काष्ठवेणुना-
वश्वापगृह्णियुः ।
 ऊह्यमानमलाबुदृतिप्लवगण्डिकावेणिकाभिस्तारयेयुः। अनभि- 262 3

सरतां द्वादशपणो दण्डः अन्यत्र प्लवहीनेभ्यः ।



  1. 1 मानू.