पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
206
४िअधि. २ अध्या.
कण्टकशोधनम्

260 1 मूल्यादष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः । तेन द्विशतो-

त्तरा दण्डदृद्धिर्व्याख्याता ।
 [१]धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्णोपधाने
द्वादशपणो दण्डः।
 यान्निसृष्टमुपजीवेयुः, तदेषां दिवसञ्जातं सङ्ख्याय वणिक्
स्थापयेत् । क्रेतृविक्रेत्रोरन्तरपतिनमादायादन्यं[२] भवति । तेन
धान्यपण्यनिचयांश्चानुज्ञाताः कुर्यु , अन्यथा निचितमेषां
पण्याध्यक्षो गृह्णीयात् । तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण
प्रजानाम् ॥
 [३]अनुज्ञातक्रयादुपारी चैषां स्वदेशीयानां पण्यानां पञ्चकं
शतमाजीवं स्थापयेत् । परदेशीयानां दशकम् । ततः परमर्धू
वर्धयतां क्रये विक्रये वा भावयता पणशते पञ्चपणाविशतो
दण्डः । तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
 सम्भूयक्रये चैषां अविक्रीतेनान्यं सभूयक्रयं दद्यात्। पण्यो.
पघाते चैषामनुग्रहं कुर्यात् ।
 पण्यवाहुळ्यात्पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत।
 तेष्वविक्रीतेषु नान्ये विक्रीणरिन् । तानि दिवसवेतनेन
विक्रीणीरन् अनुग्रहेण प्रजानां ।


  1. 1 याश्य. I1, 248-249.
  2. दन्यत्.
  3. याश्य. II. 252.