पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६ प्रक.]
201
कारुकरक्षणम्

अन्यत्र भ्रेषोपनिपाताभ्या नष्ट विनष्टं वाऽभ्यामवेयुः । 253 3
कार्यस्यान्यथाकरणे वेतननाशस्तद्विगुणश्च दण्डः ।
 तन्तुवाया दशैकादशिक सूत्रं वर्धयेयु । वृद्धिच्छेदे छेदद्वि-
गुणो दण्डः सूत्रमूल्यं वा न वेतन ; क्षौमकोशेयानामध्यर्धगुणं ;
पत्रोर्णाकम्बलदुकूलानां द्विगुणं ; मानहीने हीनापहीनं वेतनं
तद्विगुणश्च दण्डः । तुलाहीने हीनचतुर्गुणो दण्डः । सूत्र
परिवर्तने मूल्यद्विगुणः ।
 तेन द्विपटवान व्याख्यातम् ।
 ऊर्णातुलाया' पञ्चपलिको विहननच्छेदो रोमच्छेदश्च ।।
 रजकाः काष्ठफलक लक्ष्णशिलासु वस्त्राणि नेनिज्युः।
 अन्यत्र नेनिजन्तो वस्त्रोपघातं षट्पणं च दण्डं दधुः ।।
 मुद्गराङ्कादन्यद्वासः परिदधानास्त्रिपणं दण्ड दधुः ।
 पर[१] वस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः । परि-
वर्तने मूल्यद्विगुणो वस्त्रदानं च । मुकुलावदातं शिलापट्ट-
शुद्ध[२] धौतसूत्रवर्ण प्रमृष्टश्वेततरं चैकरात्रोत्तरं [३]दण्डं दद्युः । 254 8
पञ्चरात्रिकं तनुराग; षड्रात्रिकं नीलं; पुष्पलाक्षामञ्जिष्टारक्तं
गुरुपरिकर्मयत्नोपचार्यं जात्वं वासः सप्तरात्रिकं ; ततः परं

वेतनहानि प्राप्नुयुः॥



  1. याज्ञ् II.241
  2. द्व
  3. नास्ति.