पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
372
[१०. आधे, ५ अभ्या.
सामामिकम्

१५५---१५७ प्रक पक्षकक्षोरस्यानां बलाग्रतो व्यू-                                         हविभागः, सारफल्गुबलविभागः, पत्त्यश्वरथ-                                            हस्तियुद्धानि च.


 पञ्चधनुश्शतापकृष्टदुर्गमवस्थाप्य युद्धमुपेयात् । भूमिवशेन 4471 वा विभक्तमुख्यामचक्षुर्विषये मोक्षयित्वा सेना सेनापतिनायकौ व्यूहेयाताम् । शमान्तरं पत्तिं स्थापयेत्। त्रिशमान्तरमश्वं, पञ्च- शमान्तरं रथ, हस्तिनं वा द्विगुणान्तर त्रिगुणान्तरं वा व्यूहेन! एवं यथासुखमसम्बाधं युध्येत ।  पञ्चारत्नि धनुः तस्मिन् धन्विनं स्थापयेत् । त्रिधनुष्य- श्व, पञ्चधनुषि रथं हस्तिन वा ।  पञ्चधनुरनीकसन्धि पक्षकक्षोरस्यानां अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः पञ्चदश रथस्य हस्तिनो वा पञ्च चाश्वाः ताव- न्तः पादगोपाः वाजिरथाद्विपानां विधेयाः।  त्रीणि त्रिकाण्यनीकं स्थानामुरस्य स्थापयेत् । तावत्कक्षं पक्षं चोभयत पञ्चचत्वारिंशत्, एवं स्था व्यूहे[१] भवन्ति । द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोद्धारः, तावन्तः पादगोपा वाजिरथद्विपानां; एष सम न्यूहः तस्य द्विरथो वृद्धिः। एक[२]विंशतिरथादित्येवमोजा दश 447 3 विषमव्यूह[३] प्रकृतयो भवन्ति ।[४] अतस्सैन्यानां व्यूहशेषमावापः कार्यः।

  1. 1 रथव्यूहे
  2. 2 आ एक
  3. 3 समव्यूह
  4. 4 पक्षकक्षारस्यानामतो विषमसं- ख्याने विषमव्यूह. तस्यापिद्विस्थोत्तरा वृद्धि। एकविंशतिरथादित्येवमोजा दश विषम- व्यूहप्रकृतयो भवन्ति । अत.