धासारयोर्घातो रक्षा वा, विशुद्धिस्थापना च बलस्य, प्रसा- 445 11 रवृद्धिबाहूत्सारः, पूर्वतहारो व्यावेशनं, व्यावधनमाश्वासो ग्रहणं मोक्षण मार्गानुसारविनिमय कोशकुमाराभिहरण जघनकोटयभि घातो हीनानुसारणमनुयान समाजकर्मेत्यश्वकर्माणि । पुरोयानमकृतमार्गवामतीर्थकर्म बाहूत्सारस्तोयतरणावतरणे स्थानगमनावतरणं विषमसंबाध[१] प्रवेशोऽग्निदानशमनमेकाङ्गविज- यः भिन्नसंधानमभिन्न भेदन व्यसने त्राणमभिधातो विभीषिका त्रासनमौदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहन- मिति हस्तिकर्माणि । स्वबलरक्षा चतुरङ्गबलमतिषेधः संग्रामे ग्रहणं मोक्षणं भि- नसंधानमभिन्नभेदनं आसनमौदार्यं भीमघोषश्चेति रथकर्माणि। सर्वदेशकालशस्त्रवहनं व्यायामश्चेति पदातिकर्माणि । शिबिरमार्गसेतुकूपतीर्थशोधनकर्मयन्त्रायुधावरणोपकरणग्रा सवहनमायोधनाच्च प्रहरणावरणप्रतिविद्धापनयनमिति विष्टि- कर्माणि ।
कुर्याद्गवाश्वव्यायोगं रथेष्वल्पहयो नृपः ।
खरोष्ट्रशकटानां वा गर्भमल्पगजस्तथा ॥ 4466
इति सांग्रामिके युद्धभूमयः, पत्त्यश्वरथहस्तिकमाणि चतुर्थोऽध्याय. आदितो द्वात्रिंशशतः.
- ↑ 1 विषम सम्बाध.