इति देशावस्थापनम् । 4343
एतेन यात्रामध्यान्तेष्वर्थानर्थसंशयानामुपसंप्राप्तिाख्याता।
निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्रादावर्थः श्रेयानुपसं
प्राप्तुं पार्ष्णिग्राहासारभतिघातक्षयव्ययप्रवासप्रसादेय[१] मूलरक्षणे.
षु च भवति तथाऽनर्थसंशयो वा स्वभूमिषु ह्याविषह्यो[२] भवति।
एतेन यात्रामध्येऽनर्थसंशयाना[३]मुपसप्राप्तिर्व्याख्याता ।
यातृयात्रान्ते तु[४] कर्शनीयमुच्छेदनीयं वा कर्शयित्वोच्छिद्य
वाऽर्थः श्रेयानुपसंप्राप्तुं नानर्थस्संशयो वा, पराबाधभयात् ।
सामवाायिकानामपुरोगस्य तु यात्रामध्यान्तगोऽनर्थस्संशयो
वा श्रेयानुपसंप्राप्तुमनिबन्ध[५] गामित्वात् ।
अर्थो धर्मः काम इत्यर्थत्रिवर्गः ।
तस्य पूर्वः पूर्वश्श्रेयानुपसंप्राप्तुम् ।
अनर्थोऽधर्मश्शोक इत्यनर्तत्रिवर्गः ।
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ।
अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशय- त्रिवर्गः। तस्योत्तरपक्षसिद्धौ पूर्वपक्षश्रेयानुपसंप्रातुम् । इति कालावस्थापनम् । इत्यापदः। 4354