पृष्ठम्:मृच्छकटिकम्.pdf/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मृच्छकटिकस्याङ्कक्रमेण
कथावस्तु

 शूद्रकनृपतिविरचितं शृङ्गाररसप्रधानं दशाङ्कनिबद्धं मृच्छकटिकं नामेदं प्रकरणम् । अस्मिन् मालवेप्रदेशान्तर्गतसिप्रानदीपूर्वतीरस्थाऽवन्त्यपरा- भिधोज्जयिनीवास्तव्ययोर्वसन्तसेनाचारुदत्तयोः परस्परानुरागो निपुणतरं वर्णितो वरीवर्ति ॥

तत्र तावत् प्रथमेऽङ्के

 जूर्णवृद्धप्रेषितजातिकुसुमवासितप्रावारकमादायागच्छतः, सादेशं मातृकाभ्यो बलिमुपहर्तुं पक्षद्वारमपावृत्य रदनिकया चतुष्पथं गच्छतोऽन्तराले वसन्तसेनाशङ्कया संस्थानकशकारनिगृहीतां रदनिकां प्रेक्ष्य विटेन सविनयमनुनीयैतदनिवेदयितुमङ्गीकारितात्प्रतिनिवृत्य "अस्माभिरभिसार्यमाणा वसन्तसेना भवद्भवनं प्रविष्टा, यदि तामर्पयसि तदा मैत्री, अन्यथाऽऽमरणवैरम्" इति राष्ट्रियोक्तिं निवेदयतो मैत्रेयात्सेयमिति श्रुत्वा रत्नभाण्डं निक्षिप्य प्रतिगन्तुकामां तां प्रतियाप्य, नक्तमौपनिधिकं रक्षितुं विदूषकायादिश्य च, स्वभवनं प्रत्याविशति चारुदत्त इति प्रदर्शितम् ॥

द्वितीयेऽङ्के

वसन्तसेना मदनिकया चारुदत्तमेवानुचिन्तयन्ती, द्यूते दशसुवर्णहारणात् पलाय्य जीर्णदेवालये गत्वा देवप्रतिमारूपेणावस्थितस्य, तमनुसरन्त्यां सभिक-द्यूतकराभ्यां द्यूतेन निगृहीतस्य तदनु गण्डं कारयितुं राजमार्गे नीतस्य, तत्र शर्विलकमित्रदर्दुरकेण विकलहाय्य पांसुना सभिकस्य चक्षुषी प्रपूर्य पलायितस्य, अपावृतद्वारं वसन्तसेनागृहं प्रविष्टस्य, प्रश्नोत्तराभ्यां परिज्ञातपूर्वचारुदत्तसेवकस्य संवाहकस्यार्थे द्वारबहिश्चतुष्पथावस्थितमाथुराय निजरुक्मवलयं दत्वा, कर्णपूरकान्निजभुजविक्रमकृतकरिदमनलब्धं परितोषजातिकुसुमवासितप्रावारकमादाय तत्प्रतिनिधिजाम्बूनदकटकं तस्मै दत्वा च स्वसदननिकटमार्गेण स्वभवनं गच्छन्तं चारुदत्तं निरीक्षितुमुदालिन्दमारोहतीत्ययमर्थो विनिषद्धः॥