पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
42
[१ आधि २० अध्या.
विनयाधिकारिकम्

 आशीतिकाः पुरुषाः पञ्चाशत्कास्त्रीयो वा मातापितृव्यञ्ज नास्स्थविरवर्षवराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्यु: स्थापपयेयुश्च स्वामिहिते ।

स्वभूमौ च वसेत्सर्वः परभूमौ न सञ्चरेत् ।
न च बाह्येन संसर्गे कश्चिदाभ्यन्तरो व्रजेत् ॥
सर्व चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् ।
निर्गच्छेदधिगच्छेद्वा मुद्रासङ्घान्तभूमिकम् ॥

इति विनयाधिकारिके निशान्तप्राणिधि: विंशोऽध्यायः

१८. प्रक, आत्मरक्षितकम्.

शयनादुत्थितस्स्त्रीगणैधन्विभिः परिगृह्येत ।
द्वितीयस्यां कक्ष्यायां कञ्चकोष्णीषिभिर्वर्पवराभ्यागारिकैः ।
तृतीयस्यों कुब्जवामनकिरातैः ।
चतुर्थ्यां मन्त्रिभिस्सम्बन्धिभिदौवारिकैश्च प्रासपाणिभिः ।
पितृपैतामहं महासम्बन्धानुबन्धं शिक्षितमनुरक्तं कृतकर्माणं

जनमासन्नं कुर्वीत्त ।

नान्यतोदेशीयमकृतार्थमानं स्वदेशीयं वाऽप्यकृत्योपगृहीतं

अतर्वशिकसैन्यं राजानमन्तःपुरं च रक्षेत् ।