अथर्ववेदः/काण्डं १३/सूक्तम् ०८

विकिस्रोतः तः
← सूक्तं १३.०७ अथर्ववेदः - काण्डं ९
सूक्तं १३.८(१३.४)
ब्रह्मा
सूक्तं १३.०९ →
दे. अध्यात्मम् । (षट्पर्यायेषु पञ्चमं पर्यायसूक्तम्)- - - - -- -

13.८(१३.४)
भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}