पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ प्रक.]
39
राजप्रणिधि

कृतिकोपरिवशं वा गच्छेत् । तस्माद्देवताश्रमपापण्डश्रोत्रिय पशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्यनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्यगौरवादात्यायिकवशेन वा ।

सर्वमात्ययिकं कार्यं श्रुणुयान्नातिपातयेत् ।
कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वा विजायते ।।
अग्नयगारगतः कार्ये पश्येद्वैद्यतपस्विनाम् ।
पुरोहिताचार्यसख: प्रत्युत्थायाभिवाद्य च ।।
तपस्विनां तु कार्याणि त्रैविद्येस्सह कारयेत् ।
मायायोगविदां चैव न स्वय कोपकारणात् ।।
राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम् ।।
दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम् ।।
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥
तस्मान्नित्योत्थितो राजा कुर्यादर्थानुशासनम् ।
अर्थस्य मूलमुत्थानमनर्थस्य विपर्ययः ।।
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।।
प्राप्यते कलमुत्थानाल्लभते चार्थसम्पदम् ।।

इति विन्याधिकारके राजप्रणिधि: एकोनविंशोध्यायः