लक्ष्मीतन्त्रम्/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ लक्ष्मीतन्त्रम्
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
लक्ष्मीतन्त्रस्य अध्यायाः

अष्टादशोऽध्यायः - 18
शक्रः---
{1}नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् ।। 1 ।।
1. - - - - - - - - - - - -
{1. F. omits this verse. }
ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ।। 2 ।।
2. - - - - - - - - - - - - -
कुतो मन्त्रसमुत्पत्तिः व्क च मन्त्रः {2}प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते ।। 3 ।।
3. - - - - - - - - - - - - -
{2. विलीयते B. }
कियत्यश्च {3}विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ।। 4 ।।
4. - - - - - - - - - - -
{3. विधास्तस्य B. G. I. }
मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ।। 5 ।।
5. - - - - - - - - - - -
उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ।। 6 ।।
6. - - - - - - - - - - - -
योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च।
{4}प्रायश्चित्तविधिश्चैव {5}श्राद्धकल्पस्तथैव च ।। 7 ।।
7. - - - - - - - - - - - - - -
{4. प्रायश्चित्ति A. F. G. }
{5. श्रद्धाकल्पः A. }
दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते{6} ।। 8 ।।
8. - - - - - - - - - - - - -
{6. उपपद्यते B. }
प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ ।। 9 ।।
9. - - - - - - - - - - - -
शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः{7}---
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर ।। 10 ।।
10. - - - - - - - - - - -
{7. श्रीरुवाच I. }
वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः {8}पूर्णः पुरुषः पुष्करेक्षणः ।। 11 ।।
11. - - - - - - - - - - - - -
{8. पूर्ण B. G. I. }
स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम् ।। 12 ।।
12. इदंतयेति। इदमिति प्रतीतिविषयतयेत्यर्थः। पराक्त्वेनेति यावत्। युष्मदस्मत्प्रत्ययगोचरत्वं हि क्रमेण पराक्त्वप्रत्यक्त्वयोर्लक्षणमामनन्ति।
तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः ।। 13 ।।
13. विलीनेत्यादि; इदंपदार्थभूताः सर्वेऽपि अचित्पदार्थाः; त एव द्वीपाः चिदम्बुधौ वासुदेवे विलीय तेन सहैकत्वं प्राप्ता इत्यर्थः।
निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी ।। 14 ।।
14. - - - - - - - - - - - -
नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता ।। 15 ।।
15. नित्योदितेति। उदयो द्विविधः---शान्तोदयः नित्योदयश्चेति। अवतारावस्थायामाद्यः। परावस्थायां द्वितीयः।
या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता{9}।
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी ।। 16 ।।
16. - - - - - - - - - - -
{9. रूपिणी G. }
अवबोधात्मिकाया मे या प्रत्यगवमर्शिता{10}।
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते ।। 17 ।।
17. प्रत्यगवमर्शिता; अहंप्रत्ययगम्यता।
{10. अवमर्शिनी C. }
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ।। 18 ।।
18. - - - - - - - - - - - -
व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः ।। 19 ।।
19. - - - - - - - - - - - - -
तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प{11} उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते ।। 20 ।।
20. - - - - - - - - - - - -
{11. अयम् B. }
शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा ।। 21 ।।
21. शब्दस्योदयः प्रथमम्; अनन्तरमर्थस्येति तान्त्रिकसिद्धान्तः। श्रुतावपि "नामरूपे व्याकरवाणि" इति नामव्याकरणं पूर्वं, ततो रूपव्याकरणमुक्तं वेदितव्यम्।
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ।। 22 ।।
22. - - - - - - - - - - - - -
स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ।। 23 ।।
23. एवं च शब्दब्रह्म, परा वाक्, नाद इति पर्यायाः
नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ।। 24 ।।
24. - - - - - - - - - - - - - -
पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ।। 25 ।।
25. बिन्दोरनन्तरं शक्त्युन्मेषस्य मध्यमेति नाम।
मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ।। 26 ।।
26. - - - - - - - - - - - -
चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया ।। 27 ।।
27. - - - - - - - - - - - - -
अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी{12}।
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् ।। 28 ।।
28. - - - - - - - - - - - -
{12. अनपायिनी F. }
शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ।। 29 ।।
29. - - - - - - - - - - - - -
वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ।। 30 ।।
30. - - - - - - - - - - -
वाच्यवाचकभेदेन{13} पुनः सा द्विपदी स्मृता।
{14}ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी ।। 31 ।।
31. शषसहा ऊष्माणः। यरलवा अन्तःस्थाः। अचः स्वराः। कादयो मावसानाः स्पर्शाः।
{13. भावेन B. }
{14. B. and F. omit nine lines from here. }
अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता ।। 32 ।।
32. अष्ट वर्गाः---स्वरवर्गः, कादिपान्तवर्गाः पञ्च, ऊष्मवर्गः, अन्तःस्थवर्गश्चेति। अघोषाश्च---यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गश्चेति।
अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ।। 33 ।।
33. प्रकारान्तरेणैकध्यादिकमुच्यते। शब्दब्रह्मरूपेणैकरूपा। ध्वनिवर्णात्मना द्विरूपा।
तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ।। 34 ।।
34. तक्षती; तक्षन्ती तनूकुर्वती। सर्वं सलिलं संसरणहेतुं प्राकृततुष्टिम्। सलिलाक्यस्तुष्टिविशेषः सांख्यसमयप्रसिद्धः। अत्र "गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्।।" (ऋ. 1-164-41) इति श्रुतिरनुक्रियते। चतुष्पदी; द्रव्यजातिगुणक्रियाशब्दात्मना चतूरूपा।
नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता ।। 35 ।।
35. तेषामेव शब्दार्थात्मना प्रत्येकं द्वैविध्ये संकलय्याष्टरूपा।
व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा ।। 36 ।।
36. एषा च व्यवस्था प्राकृतलोक एव। अप्राकृतलोके तु अनन्ताक्षररूपा।
मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः ।। 37 ।।
37. - - - - - - - - - - - - -
{15}मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः ।। 38 ।।
38. विवर्तन्ते; परिणमन्ति। नात्रान्यपरिभाषितो विवर्तो विवक्षितः, `त्रैगुण्यं परिणामि तत्' इत्युक्तत्वेन त्रिगुणपरिणामत्वात् शब्दस्य।
{15. मामेवाश्रित्य वर्तन्ते F. }
सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ।। 39 ।।
39. - - - - - - - - - - - - -
अध्यायाश्च परिच्छेदाः सर्गा उछ्वासकास्तथा।
पटलाद्या {16}अवच्छेदाः {17}प्रश्रवाकानुवाककाः ।। 40 ।।
40. - - - - - - - - - - - - - -
{16. व्यवच्छेदाः D. }
{17. प्रश्ना C. }
मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ।। 41 ।।
41. - - - - - - - - - - - - - -
शास्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः ।। 42 ।।
42. - - - - - - - - - - - - -
मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः ।। 43 ।।
43. - - - - - - - - - - - -
मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् ।। 44 ।।
44. - - - - - - - - - - - - -
स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ।। 45 ।।
45. - - - - - - - - - - - -
सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः ।। 46 ।।
46. - - - - - - - - - - - -
प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये ।। 47 ।।
47. - - - - - - - - - - - - -
प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् ।। 48 ।।
47. - - - - - - - - - - - - -
तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् ।। 49 ।।
49. - - - - - - - - - - - - -
भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च ।। 50 ।।
50. - - - - - - - - - - - -
भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते ।। 51 ।।
51. - - - - - - - - - - - -
इति {18}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {19}मन्त्रस्वरूपकथनं नाम अष्टादशोऽध्यायः
{18. श्रीपञ्चरात्र A. }
{19. I. omits the title. }
********इत्यष्टादशोऽध्यायः********