अथर्ववेदः/काण्डं ६/सूक्तम् ०७०
दिखावट
← सूक्तं ६.०६९ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०७० ऋषिः - काङ्कायनः |
सूक्तं ६.०७१ → |
दे. अघ्न्या। जगती।
अन्नम् |
यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।
यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥
यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।
यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥
यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।
यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥