सदस्यः:Likith.s 1810388

विकिस्रोतः तः

'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म ।यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Likith.s_1810388&oldid=206390" इत्यस्माद् प्रतिप्राप्तम्