पृष्ठम्:मृच्छकटिकम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
मृच्छकटिके

 धृता-वरं पावाचरणे । ण उण अजउत्तस्स अमंगलाकण्णणं । (वरं पापाचरणम् । न पुनरार्यपुत्रस्यामङ्गलाकर्णनम् ।]

 शर्विलकः---( पुरोऽवलोक्य ) आसन्नहुतवहार्या । तत्त्वर्यतां त्वर्यताम् ।

( चारुदत्तस्त्वरितं परिकामति )

 धृतारअणिए । अवलंब दारअं, जाव अहं समीहिदं करेमि । [रदनिके ! अवलम्बस्व दारकम् । यावदहं समीहितं करोमि । ]

 चेटी--( सकरुणम्) अहं पि पधोवदेसिणि म्हि भट्टिणीए । [ अहमपि पथोपदेशिन्यस्मि भट्टिन्याः ।]

 धूता--( विदूषकमवलोक्य ) अज्जो दाव अक्लंबेदु । [ आर्यस्तावद- वलम्बताम् ।]

 विदूषकः-( सावेगम् ) समीहिदसिद्धिए पउत्तेण बम्हणो अग्गदो कादव्यो । अदो भोदीए अहं अग्गणी होमि । [ समीहितसिध्यै प्रवृत्तेन ब्राह्मणोऽग्रे कर्तव्यः । अतो भवत्या अहमग्रणीर्भवामि ।]

 धूता-कधं पञ्चादिट्ठम्हि दुवेहिं ? । ( बालकमालिङ्गय ) जाद । तुमं ज्जेव पज्जवट्टावेहि अत्ताणं अम्हाणं तिलोदअदाणाअ ।

अदिक्कते किं मणोरहेहिं ।। ( सनिःश्वासम् ) ण खु अज्जउत्तो तुम पज्जवट्ठाविस्सदि । [ कथं प्रत्यादिष्टास्मि द्वाभ्याम् ? जात ! त्वमेव पर्यवस्थापयामानमस्माकं तिलोदकदानाय । अतिक्रान्ते किं मनोरथैः ? । न खल्वार्यपुत्रस्त्वां पर्यवस्थापयिष्यति ।।

 चारुदत्तः--( आकर्ण्य, सहसोपसृत्य ) अहमेव पर्यवस्थापयामि बालिशम् । ( इति बालकं बाहुभ्यामुत्थाप्य, वक्षसालिङ्गति )


त्वरयेति ॥ ५६ ॥ पुस्तकान्तरपाठदर्शनव्याख्या—अहमेवेति । पर्यवस्था-