पृष्ठम्:मृच्छकटिकम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
मृच्छकटिके

पुनर्जना मरणभीरुका मानवा वा ? । श्लोके कोऽप्युत्थितः पतति, कोऽपि पतितोऽप्युत्तिष्ठते । उत्तिष्ठस्पततो वसनपातिका शवस्य पुनरस्ति । एतानि हृदये कृत्वा संधारयात्मानम् । एतच्चतुर्थ घोषणास्थानम् , तदुद्धोषयावः ।।

( पुनस्तथैवोद्घोषयतः )

 चारुदत्तः--हा प्रिये वसन्तसेने ! (‘शशिविमलमयूख--- [१०११३ ] इत्यादि पुनः पठति )

( ततः प्रविशति ससंभ्रमा वसन्तसेना भिक्षुश्च )

 भिक्षुः--हीमाणहे, अट्ठाणपलिश्शंतं शमश्शाशिअ वशंतशेणिअंणअंते अणुग्गहिदम्हि पव्वज्जाए । उवाशिके ! कहिं तुम णइश्शं । [ आश्चर्यम्, अस्थानपरिश्रान्तां समाश्वास्य वसन्तसेनिकां नयन्ननुगृहीतोऽस्मि प्रव्रज्यया । उपासिके ! कुत्र त्वां नेष्यामि ? ।]

 वसन्तसेना--अज्जचारुदत्तस्स ज्जेव गेहं । तस्स दंसणेण मिअलांछणस्स विअ कुमुदिणिं आणंदेहि मं । [ आर्यचारुदत्तस्यैव गेहम् । सस्य दर्शनेन मृगलान्छनस्येव कुमुदिनीमानन्दय माम् ]

 भिक्षुः—(स्वगतम् ) कदलेण मग्गेण पविशामि ? । ( विचिन्य } लाअमग्गेण ज्जेव पविशामि । उवाशिके ! एहि, इमं लाअमग्गं; ( आकर्ण्य) किं णु हु एशे लाअमग्गे महंते कलअले शुणीअदि ? । [ कतरेण मार्गेण प्रविशामि ? । राजमार्गेणैव प्रविशामि । उपासिके । एहि, अयं राजमार्गः; किं नु खल्वेष राजमार्गे महान्कलकलः श्रूयते ।।]

 वसन्तसेना--( अग्रतो निरूप्य) कधं पुरदो महाजणसमूहो ? । अज्ज ! जाणाहि दाब किं णेदं त्ति । विसमभरक्कंता विअ वसुंधरा एअवासोण्णदा उज्जइणी वट्टदि । [कथं पुरतो महाअनसमूहः ? । आर्य !


॥ ३५ ॥ अठ्ठाणं बुद्धस्थानम् । जीर्णस्थानरूपमेव (१) । उपासिके । पडिवालेहि प्रतिपालय । क्षणं तिष्ठतीति ( तिष्ठेति ) मारणव्यापारपरोक्तिरियम् ।