पृष्ठम्:मृच्छकटिकम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९३
दशमोऽङ्कः

 शर्विलकः---अहो प्रमादः।

त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।।
हा धिक्प्रयत्नवैफल्यं दृश्यते सर्वतोमुखम् ॥ ५६ ॥

 वसन्तसेना–समस्ससिदु अज्जो । तत्त गदुअ जीवावेदु अज्जां; अण्णधा अधीरत्तणेण अणत्थो संभावीअदि । [ समाश्वसित्वार्यः । तत्र गवा जीवयत्वार्याम्; अन्यथा घीरत्वेनानर्थः संभाव्यते । ]

 चारूदत्तः---( समाश्वस्य, सहसोत्थाय च ) हा प्रिये ! क्वासि ? । देहि मे प्रतिवचनम् ।

 चन्दनकः--इदो इदो अज्जो 1 [इत इत आर्यः ।]

( इति सर्वे परिक्रामन्ति )

 (ततः प्रविशति यथानिर्दिष्टा धूता चेलाञ्चलमाकर्षन्विदूषकेणानुगम्यमानो रोहसेनो रदनिका च )

 धृता---( सास्रम् ) जाद! मुंचेहि मं । मा विग्धं करेहि । मीआमि अज्जउत्तस्स अमंगलाकण्णणदो । [जात ! मुञ्च माम् । मा विघ्नं कुरुष्व । बिभेम्यार्यपुत्रस्यामङ्गलाकर्णनात् ।] ( इत्युत्थायाञ्चलमाकृष्य, पावकाभिमुखं परिक्रामति )

 रोहसेनः--माद अज्जए ! पडिवालेहि मं । तुए विणा ण सक्कुणोमि जीविदं धारेदुं । [ मातरार्ये ! प्रतिपालय माम् । त्वया विना न शक्नोमि जीवितं धर्तुम् । ] ( इति त्वरितमुपसृत्य, पुनरञ्चलं गृह्णाति )

 विदूषकः--भोदीए दाव बग्ह1णीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरंति रिसीओ । [ भवत्यास्तावद्ब्राह्मण्या भिन्नत्वेन चिताधिरोहणं पापमुदाहरन्ति ऋषयः ।] टिप्प०---1 क्षत्रियादीनां भिन्नत्वेनापि चितारोहणाधिकारस्मरणाद्ब्राह्मण्या इति

भिन्नत्वेनेत्युक्तिः ।