पृष्ठम्:मृच्छकटिकम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
मृच्छकटिके

आअच्छ, दीसदि तव ववहारो ता पविसदु अज्जो। [ आर्य ! अधिकरणिका भणन्ति----‘आगच्छ, दृश्यते तव व्यवहारः; तत्प्रविशत्वार्यः ।

 शकारः–ही, पढमं भणति-‘ण दीशदि, शंपदं दीशदि’ त्ति । ता णाम भीदभीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवइश्शं । भोदु, पविशाम (प्रविश्योपसृत्य ) शुशुहं अम्हाणं, तुम्हाणं पि शुहं देमि ण देमि अ । [ ही, प्रथम भणन्ति न दृश्यते, साप्रतं दृश्यत इति । तन्नाम भीतभीता अधिकरणभोजकाः, यद्यदहं भणिष्यामि तत्तत्प्रत्याययिष्यामि । भवतु, प्रविशामि। सुसुखमस्माकम् , युष्माकमपि सुखं ददामि न ददामि च ।]

 अधिकणिकः--(स्वगतम्) अहो, स्थिरसंस्कारता व्यवहारा- र्थिनः । (प्रकाशम् ) उपविश्यताम् ।।

 शकारः----आं, अत्तण केलकाशे भूमी । ता जहिं मे लोअदि तर्हि उवविशामि । ( श्रेष्ठिनं प्रति ) एश उवविशामि । (शोधनकं प्रति ) णं एत्थ उवविशामि । ( इत्यधिकरणिकमस्तके हस्तं दत्त्वा) एश उवविशामि । [ आं, आत्मीयैषा भूमिः । तद्यत्र मयं रोचते तत्रोपविशामि । एष उपविशामि । नन्वन्नोपदिशामि । एष उपविशामि ] { इति भूमावुपविशति )

 अधिकरणिकः---भवान्कार्यार्थी ।

 शकारः--अध ई । [अथ किम् ।।

 अधिकरणिकः–तत्कार्यं कथय ।

 शकारः-कण्णे कज्जं कधइश्शं । एव्वं वडढुके मल्लक्कप्पमाणाह कुडे हग्गे जादे ।

लाअशशुले मम पिदा लोआ तादश्श होइ जामादा ।
लाअशिआले हग्गे ममावि बहिणीवदी लाआ ॥ ६ ॥


पुनरुक्तम् । अत्तिका भगिनीं ज्येष्ठाम् ।। युष्माक सुखं ददामि न ददामि । शकारोक्ताव्याकुलता ॥ लाअशशुल इत्यादि । गाथा । राजश्वशुरो मम पिता