अधिकरणक---अलं लज्जया; व्यवहारस्त्वां पृच्छति ।
श्रेष्ठिकायस्थौववहारो पुच्छदि । णत्थि दोसो, कधेहि ।। [ व्यवहारः पृच्छति । नास्ति दोषः, कथय ।]
वृद्धा--कधं ववहारो ? । जइ एव्वं, तो सुणंतु अज्जमिस्सा । सो खु सत्यवाहविणअदत्तस्स णत्तिओ, साअरदत्तस्स तणओ, सुगहीदणामहेओ अज्जचारुदत्तो णाम, सेट्टिचत्तरे पडिवसदि । तहिं मे दारिआ जोव्वणसुहं अणुभवदि। [कथं व्यवहारः ? । यद्येवं, तदा शृण्वन्त्वार्यमिश्राः । स खलु सार्थवाहविनयदत्तस्य नप्ता, सागरदत्तस्य तनयः, सुगृहीतनामधेय आर्यचारुदत्तो नाम, श्रेष्टिचत्वरे प्रतिवसति । तत्र मे दारिका यौवनसुखमनुभवति ।]
शकारः-शुदं अज्जेहिं ।। लिहीअंदु ? एदे अक्खला । चालुदत्तेण शह मम विवादे । [ श्रुतमार्यैः १ । लिख्यन्तामेतान्यक्षराणि । चारुदृतेन सह मम विवादः ।]
श्रेष्ठिकायस्थौ-चारुदत्तो भित्तो त्ति णस्थि दोसो । [चारुदत्तो मित्रमिति नास्ति दोषः । ]
अधिकरणिकः-व्यवहारोऽयं चारुदत्तमवलम्बते ।
श्रेष्ठिकायस्थौ--एव्वं विअ । [एवमिव ।]
अधिकरणिकः-ध1नदत्त । वसन्तसेनार्यचारुत्तस्य गृहं गतेति लिख्यतां व्यवहारस्य प्रथमः पादः । कथमार्यचारुदत्तोऽप्यस्माभिराह्वाययितव्यः । अथवा व्यवहारस्तमाह्वयति । भद्र शोधनक ! गच्छ । आर्यचारुदत्तं स्वैरमसंभ्रान्तमनुद्विग्नं सादरमाहृय प्रस्तावेन---'अधिक- रणिकस्त्वां द्रष्टुमिच्छति' इति ।।
शोधनकः-जं अज्जो आणवेदि । ( इति निष्क्रान्तः, चारुदत्तेन सह प्रविश्य च ) एदु एदु अज्जो । [ यदार्य आज्ञापयति । एत्वेत्वार्थः ।]
टिप्प०—l कायस्थस्यदं नाम । स च सांप्रतं रेकोर्र-क्लार्क' इति संज्ञया प्रसिद्धः ।