पृष्ठम्:मृच्छकटिकम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
मृच्छकटिके

नवमोऽङ्कः

(ततः प्रविशति शोधनकः )

 शोधनकः--आणत्तम्हि अधिअरणभोइएहिं----‘अरे सोहणआ ! ववहारमंडवं गदुअ आसणाइं सज्जीकरे हि' त्ति । ता जाव अधिअरणमंडवं सज्जिदु गच्छामि ( परिक्रम्यावलोक्य च ) एदं अधिअरणमंड़वे । एस पविसामि । ( प्रविश्य, संमार्ज्यसनमाधाय ) विवित्तं कारिदं मए अधिअरणमंडवं । विरइदा मए आसणा । ता जाव अधिअरणिआणं उण णिवेदेमि । ( परिक्रम्यावलोक्य च ) कधं एसो रट्टिअस्सालो दुट्टदुज्जणमणुस्सो इदो एव्व आअच्छदि ? । ता दिट्टिपधं परिहरिअ गमिस्सं । [ आज्ञप्तोऽस्म्यधिकरणभोजकैः–“अरे शोधनक ! व्यवहारमण्डपं गत्वासनानि सञ्जीकुरु' इति । तद्यावधिकरणमण्डपं सञ्जीतुं गच्छामि । एषोऽधिकरणमण्डपः । एष प्रविशामि । विविक्तः कारितो मयाधिकरणमण्डपः । विरचितानि मयासनानि । तद्यावदधिकरणिकानां पुनर्निवेदयामि । कथमेष राष्ट्रियश्यालो दुष्टदुर्जनमनुष्य इत एवागच्छति ? । तदृष्टिपथं परिहृत्य गमिष्यामि ।]

( इत्येकान्ते स्थितः)

(ततः प्रविशत्युज्वलवेषधारी शकारः)

 शकारः--

ण्हादेहं शलिलजलेहिं पाणिएहिं
उज्जाणे उववणकाणणे णिशण्णे ।।
णालीहिं शह जुवदीहिं इश्तिआहिं
गंधव्वेहि शुविहिदपहिं अंगकेहिं ॥ १ ॥


अधिकरणे न्याय विवादविषये नियुक्तत्वात्तदेषामस्ति । अत इनिठनौ' ( पा० ५५२।११५) इति ठन् । अपवादो दोषवाच्येति यावत् । ण्हादेहं इति । प्रहर्षिणी- टिप्प--1 आधुनिकन्यायमन्दिरेवयं 'बेलीफ' संशया परिस्थिती राजपुरुः ।

2 राजश्यालत्वेन सर्व मयि संभाव्यवे इत्यस्याशयः ।