पृष्ठम्:मृच्छकटिकम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
अष्टमोऽङ्कः

 चेटः–भणादु भट्टके । [ भणतु भट्टकः।]

 शकारः--एणं वशंतशेणिअं मालेहि । [एनां वसन्तसेनां मारय ।]

 चेटः---पशीददु भट्टके । इयं मए अणज्जेण अज्जा पवहणपलिवत्तणेण आणीदा । [ प्रसीदतु भट्टकः । इयं मयानार्येणार्या प्रवहणपरि- वर्तनेनानीता।]

 शकारः--अले चेडा ! तवावि ण पहवामि । [ अरे चैट ! तवापि न प्रभवामि ।]

 वेटः—पहवदि भट्टके शलीलाह, ण चालित्ताह । ता पशीददु पशीददु भट्टके । भाआमि खु अहं । [प्रभवति भट्टकः शरीरस्य, न चारित्र्यस्य । तत्प्रसीदतु प्रसीदतु भट्टकः । बिभेमि खल्वहम् ।]

 शकारः---तुमं मम चेडे भविअ कश्श भाआशि ? । [ त्वं मम धेटो भूत्वा कस्माद्विभेषि ?।]

 चेटः–भट्टके ! पललोअश्श । [ भट्टक! परलोकात् ।]

 शकारः---के शे पललोए ?। कः स परलोकः १ ।]

 चेटः---भट्टके ! शुकिददुकिदश्श पलिणामे । [ भट्टक! सुकृत- दुष्कृतस्य परिणामः ।।

 शकारः----केलिशे शुकिदश्श पलिणामे १। [ कीदृशः सुकृतस्य परिणामः १ ।।

 चेटः--जादिशे भट्टके बहुशुण्णमंडिदे । [यादृशो भट्टको बहु- सुवर्णमण्डितः । ।

 शकारः-दुक्किदश्श केलिशे ? । [दुष्कृतस्य कीदृशः ? ।]

 चेटः----जादिशे हग्गे पलपिंडभक्खके भूदे, ता अकज्जं ॥ कलइश्शं । [ याद्दशोऽहं परपिण्डभक्षको भूतः, तदकार्य न करिष्यामि ।। शिष्टम् ॥ प्रभवति मम भट्टारकः शरीरस्य, न चारित्र्यस्य । परपिण्डभक्षको भूतः ॥